Friday, October 27, 2006


श्रीमतॆ रामानुजाय नम:
श्रीमत् वरवरमुनयॆ नम:

लॊकाचार्याय् गुरवॆ क्र्ष्णपादस्य सूनवॆ
संसारभॊजिसन्दष्ट् जीवजीवातवॆ नमः ॥


swAmi piLLAi lOkAchArya during his 800th Thirunakshathram in Srirangam

lOkAchArya panchASath is a befitting tribute to swami piLLAi lOkAchArya (CE 1205-1323) written by swAmi vEdAnthAchAryAr. SwAmi Pillai Lokacharyar, was born to Sri Vadakku ThiruveethiPillai in the year of CE 1205 at Srirangam, and has composed the Ashtadasa Rahasyas which is a phenomenal collection of the meanings of rahasya granthas. His immaculate, imperious, ineffable service to the SrIvaishNava sampradAyam can neither be measured nor clothed in any genre of literature (vAchA magOcharam). “Jyothishkudi” (kodikkulam) where swami piLLai lOkAcharayr’s thiruvarasu is present, is a small village in the present day madurai district, In Tamilnadu.

More details about this wonderful place can be found here (opens in a new window)

On 30th October 2006 we are celebrating the 801st Thirunakshatram of swami piLLAi lOkAchArya. We are happy to publish the mUlam (Original) text of the lOkAchArya panchASath on this auspicious day. A peep into individual slokams are planned for the future. With AchAryan's blessings, we hope to achieve the same sooner, rather than later.


श्री कुमार लॊकाचार्य पञ्चाशत्

श्रीमान् वॆङ्कटनाथार्य: कवितार्किक कॆसरी ।
वॆदान्ताचार्यवर्यॊ मॆ सन्निधत्ताम् सदा हृदि ॥

कावॆरी पुळिनान्तराळ लहरी कल्लॊलमालालसत्
पर्यङ्कीकृतपन्नगॆश्वरतनौ निद्रानिबद्धादरम् ।
कस्तूरी तिलकाञ्चितं कमलजॆनाराधितं श्रीसखं
वस्तु स्वीकृतकौस्तुभं दिशतुन: स्वस्ति प्रशस्तं स्वत: ॥ 1

नतलॊकपालनधिया मरुद्वृधा-पुलिनं जगाम नलिनं विहाय या ।
मयि सा तरङ्गयतु रङ्गिण: प्रिया , करुणातरङ्ग विततीरपाङ्गजा ॥ 2

यत्पाणिपद्मधृतकाञ्चनवॆत्रवल्ली - स्पन्दस्सुरॆन्द्र भयभञ्जन लम्पटात्मा ।
वैकुन्टसूरिपरिषत्प्रभुरत्र शर्म , सॊऽ यं विकासयतु सूत्रवतीपतिर्मॆ ॥ 3

मुहुर्नत्वा मूर्ध्ना विनतविविधापत्प्रशमनॆ शठारॆः
पादाब्जॆ मधुरकविविदॆवस्य शरणे।
इदं याचॆ वाचाऽ प्यलकवकुलालीपरिगलन्मधूलीमाधुर्यं
मम वचनभङ्गयां स दिशतु ॥ 4

विकासयित्वा निगमान्तभाष्य-सिध्दाञ्जनात् कामपि दीर्घदृष्टिम्।
प्रादर्शयद्यः परमं पुमांसं स पातु मां संयमिसार्व भौमः ॥ 5

कूरॆशगॊविन्दपदारविन्द-सॆवारसामॊदित चित्तभूमा ।
भट्टार्यवर्यॊऽ पि सुरवं ददातु ममाद्य वॆदान्तिमुनीश्वरॆण ॥ 6

यज्जिह्वाग्र विशालरङ्गरसिका वाणी प्रवीणाऽनिशं,
नृत्यन्ती द्रविडार्यसंस्कृतवपुर्धत्ते कवीनां प्रियम् ।
लॊकार्यः कलिवैरिदासगुरुरित्यन्याभिधानस्स मे ,
कुर्यादुत्तरवीथि कृष्ण महिताचार्यः कलासम्पदम् ॥ 7
अतुलः कलिवैरिदासवाणी - मणिवल्ली वलनावलम्बशारवी ।
गुरुरुत्तरवीथिकानिवासी मम भद्राणि तनॊतु कृष्णनामा ॥ 8

वत्सान्ववाय वरणीय पयः पयॊधेः
जातॊदयौ जगति कौस्तुभ चन्द्रबिम्बौ ।
मन्ये जगद्वितत कान्ति कलाविलासौ ,
लोकार्यसुन्दरवरौ किल कृष्ण हृद्यौ ॥ 9

वाणीपुण्यसुधापगां शठजितः स्वैरं विगाह्यादरात् ,
आनीयामृतमत्र चक्रतुरुभौ पानीयशालात्मकम् ।
यौ वाग्भूषण देशिकेन्द्रहृदयाभिख्य प्रबन्धद्वयं ,
तौ वन्दे भुवनार्यसुन्दरवरौ कृष्णात्मजौ देशिकौ ॥ 10

मधुरिपुमहिलायाः स्फीतवीक्षासरॊजात्,
मधुरफणितिभृङ्गी निर्गता काचिदॆषा ।
भुवनगुरुपादाब्ज द्दन्ट्वनिर्यन्मरन्दान् ,
अनुदिनमनुभूयाऽऽनन्द सान्द्रा मामास्तु ॥ 11

मणिप्रवालाञ्चितसूक्तिसूनैः विभूषिताऽशॆष सहस्त्रशारवम्।
अकल्पयत् कञ्चन कल्पवृक्षं कृष्णः क्षितौ लॊकगुरूत्त्माख्यम् ॥ 12

दॆवीषु पद्मनिलया दयिता बभूव, भक्तॆषु सॊऽपि वकुलाङ्कमुनिर्वरेण्यः ।
आर्येषु निर्मलगुणस्त्वयमन्तरङ्गः रङ्गाधिपस्य नृपते र्जगदार्यनामा ॥ 13

हृदयमुकुरबिम्बं यत्तवहङ्कारपङ्क
स्थगित विमलरूपं स्वॊक्तिशुद्धाम्बुपूरैः ।
भुवनगुरुवर स्तच्छॊधयित्वा जनानां
चिदचिदधिपतीं स्त्रीन् दर्शयन् भाति तत्र ॥ 14

जनिजलधिपरीतागार लीनात्मपङ्क्तयै ,
त्रिविधविशय तृष्णाराक्षसीपीडितायै ।
भुवनगुरुवरोऽदात् श्रीमतीं सूक्तिभूषां ,
पवनज इव देव्यै पाणिभूषां स्वभर्तः ॥ 15

फणितिकिरणजालैर्मान्यन् मानसाब्जं ,
चरणमुषित दोषारूढगाढान्धकारः ।
अपर इव वपुष्मानंशुमाली जनानां ,
पदमिव भुवनार्यॊ भासयन् भाति विष्णोः ॥ 16
अन्तविलॊचनमनन्ततमॊनिगूढम् ,
आलॊक्य जन्तु निवहस्य दयार्द्रचॆताः ।
उन्मीलयन्नुपहितॆन रहस्त्रयार्थ दीपॆन
यॊ जयति लॊकगुरुं तमीडॆ ॥ 17

भुवनगुरूत्तमश्चतुररङ्गपुरापणिकः
कलिरिपुदासवर्य कलितामलसूक्तिमणीन् ।
गुणपणसङ्ग्रहॆण निपुणाय ददाति हि
तान् अथ पुनरॆव व्रुद्धिमुपयान्ति विचित्रमिदम् ॥ 18

दृढभवदविद्यावल्लरी वासनाऽभ्दिः
समयविहितपॊषा विस्त्रुता कर्मवृक्षे ।
भुवनगुरुवरॊक्तिप्रौढझञ्झामरुभ्दिः
सतरुरपहृता सा क्षॆत्रिणॊ भग्नमूला ॥ 19

यतिप्रवर भारतीजलनिधिं प्रपीयामलं ,
जगद्गुरुवलाहकः पटु ववर्ष भूमौ जलम् ।
विकासमगमत् परं विनतसस्य पङ्क्तुस्तदा ,
प्रवाहबहुलाऽभवत् निगममौलिनिद्यानदी ॥ 20

पटुप्रथमदॆशिकैर्विरचिताः प्रबन्धाः परॆ,
रहस्त्रयपदावलीविवरणॆ प्रवृत्ताः परम् ।
जगद्गुरुमुखॊदिताः जगति भान्त्यमी भास्कराः ,
भवप्रभवशर्वरी विभव मॊचनाहस्कराः ॥ 21


अगम्यमहिमा जनै र्निगममौलिकान्तारभू -
विहाररसिकॊ वृषक्षितिभृतॊ वसन् कन्दरॆ ।
विभाति विमतॊन्मदद्विरदकुम्भसम्भॆदन ,
क्षमॊक्तिनखरॊ महान् स जगदार्यकन्ठीरवः ॥ 22

विगतविषयतृष्णः कॄष्णपादाश्रयात्मा ,
द्रमिडनिगमदर्शी देशिकानां प्रधानः ।
मधुरकविवचॊभि र्माननीयॊ ममासौ ,
शठरिपुरिव लॊकाचार्यवर्य़ॊ विभाति ॥ 23

चुलुकितभवसिन्धुं चित्तजकॊधदैत्य
प्रमथनपटुबुद्धिं श्रीजगद्यॆशिकॆन्द्रम् ।
द्रविडफणितिदक्षं दक्षिणाशानिषण्णं
कलशतनयमन्यं मन्यतॆ मॆ मनस्त्वाम् ॥ 24

श्रीवत्सरूपरुचिरॊऽप्यरति: प्रिया तॆ प्रीतिर्मधुद्यिषि भवप्रभवा न भीतिः ।
लॊकावलीविमललोचनगॊचराङ्गः कृष्णात्मजस्त्वमपरः किमु मन्मथॊऽसि ॥ 25

दृष्ट्वा तॆ भुवनार्य सुन्दरवपुः कॆचित् भवाम्भॊनिधिं ,
सन्तीर्णाः श्रवणामृतं तव गुणं श्रुत्वा सकृत् कॆचन ।
अन्यॆ कॆऽपि सुधासहॊदरगिरः पीत्वाऽभवन्निर्मलाः ,
तस्मात् संसृतिवर्तनी क्षितितलॆक्षीणा बभूव क्षणात् ॥ 26

तव चरणसरॊजस्पर्शधन्यस्तु कश्चितू फणिपतिपुर बाह्यॊद्यान सीमानिवासी ।
भुवनगुरुवर श्रीपद्मनाभस्य पादॆ विलयमगमदारान्मानवैदृश्यमानः ॥ 27

सच्चीवनी चरणरॆणुकणावली तॆ संसारतक्षक मुखक्षत मुग्धजन्तॊः ।
लॊकार्यवर्य करुणामृत सारणी तु संविल्लतां कलयतॆ हृदयॆ प्ररूढाम् ॥ 28


शिष्यॆषु वाग्भूषणभूषितॆषु, जगद्गुरॊ ते करुणाऽभिषॆकात् ।
स कूरवंशॊत्तम दासनामा मान्यॊ गुरुणामभवन्महिम्ना ॥ 29


रूपं पुराणमणिभिः श्रुतिवज्रदीप्तं
पद्मापतॆर्मुनिजनस्तदलञ्चकार ।
तत्र त्वया विरचितं तु मणिप्रवाल
नाग्भूषणं हि नितरां भुवनार्य भाति ॥ 30

कामं भवन्तु गुरवॊ विविधागमार्थ,
विञ्यान विश्व विदिताः विहितप्रबन्धाः ।
त्वत्सूक्तिमौक्तिकगणॊ यदलञ्चकार,
रङ्गाधिपश्रुतियुगं भुवनार्य किं तैः ॥ 31

श्रुतिनिकरगभीर काननान्त, र्विहरण विश्रुतबुद्धिना त्वयैव ।
प्रपदनसरणिर्विशॊधिताऽभूत् , भुवनगुरॊ भुवि लॊकसाधनीया ॥ 32

त्वयि विलसति रङ्गॆ शॆषतल्पॆन पुंसा,
जगति गुरुवर श्रीदृष्टिपूराभिषिक्तॆ ।
कथमिव भुवनार्य त्वां विनाऽन्यं
भजन्तॆ सति दिनकरबिम्बॆ कॆ प्रदीपं वहन्ति॥ 33

अवनसवनकर्मण्यात्मलॊकस्य रङ्गी ,
भुवनगुरु वर त्वां कल्पयित्वा समर्थम् ।
तदनु भुजगराजॊत्तुङ्ग पर्यङ्कशायीं ,
रचयति सुखनिद्रां राघवाणां कुलॆन्द्रः ॥ 34

परपदनिलयॊऽसौ पद्मया रङ्गनाथः
पुलिनतटमवप्य त्वां भुवंचापयित्वा ।
चिरमभिलषितार्थं प्राप्य लॊकार्य मन्यॆ
कलयति दरहासं फुल्लवक्लारविन्दः ॥ 35

बहुविधदुरितौघॆ मज्जतां मानवानां
द्वयमनुकरयुग्मं सम्प्रसार्याञ्जसा तान् ।
तटभुवमुपनीय ,प्रापिताशॆष विद्यान्
कलयसिभुवनार्य त्वं कृपाचॊदितात्मा ॥ 36

वक्लॆन्दॊर्भुवनार्यवर्य भवतॊ वाणी सुधाधॊरणी
जञ्गॆऽष्टादशभॆदपूर विहितत्राणात्मसस्या यतः ।
यॆशा संसृतिभूरभूत् फलवती तस्मान्नदीमातृका,
कृष्णाम्भॊदविलॊकिनी किल पुरा न प्राप वृद्धिं पराम् ॥ 37

क्रॊधः क्कापि पयॊनिधौ निपतितः कामस्त्वनङ्गॊऽ
भवतू , दर्पः सर्प इव द्रुतं वनबिलॆ मग्नॊ न दृग्गॊ चरः ।
दम्भाहङ्कृतिलॊभमत्सरभटाः कुत्रापि कॊणॆ गताः,
जातॆ भूमितलॆ विवॆकमहितॆ लॊकार्यवर्यत्वयि ॥ 38

दया मुदमुपागमत् दमशमक्षमा भूषिताः ,
विरक्तिरपिशॊभतॆ विमलविद्ययाऽलङ्कृता ।
मुहुस्सुमतिसंस्कृता लसति विष्णुभक्तिर्गुणाः
विवॆकजनकं जगद्गुरु मुपाश्रिता भान्त्यमी ॥ 39

जगद्गुरुवरानिशं चरणसम्भृता भूसुराः
मुमुक्षु जनशॆरवरास्त्विति न चित्रमत्रावनौ ।
विविच्य चिदचित्प्रभून् तव कृपाञ्जनॊद्यदृशा
निवृत्तिपथगामिती सपदि भामिनी काप्यभूत् ॥ 40

चतुर्वदनसुन्दरी तव मुखारविन्दं श्रिता ,
रमापतिपदप्रिया लसति कापि भक्तिर्हृदि ।
विरक्तिरपि शॊभतॆ विदितनीलकण्ठाङ्गगा ,
वधुविमुखम् आः कथं भुवनदॆशिकात्वां जगुः ॥ 41

जगद्गुरुवर क्षितौ क्षणितकल्मषौधां कलां ,
चतुर्थपुरुषार्थदामपि कलौ वितत्य त्वयि ।
कृतावतरणॆ पुनः कृतयुगक्रमः शॊभतॆ ,
न कॊऽपि भुवि दृश्यतॆ नरकवर्त्मगामी नरः ॥ 42

हृदन्तरमः प्रभामनुभवन्ति भक्तिं परॆ,
प्रपत्तिमपि कॆचन प्रबलकर्मनिर्मूलिनीम् ।
जगद्गुरुवर द्वयं भवतु सिद्धिदं साधनं ,
वयं तव पदाम्बुज स्मरणमॆव मन्यामहॆ ॥ 43

गुरुर्भवति दॆहिनां भुवनदॆशिकस्यादरात् ,
अपाङ्गलवविप्रुषः परिपतन्ति यस्याङ्गकॆ ।
शुभानि किल तं भजन्त्यथ कला समुज्जृम्भतॆ ,
भवन्ति नवसम्पदॊ भजति मॊक्षलक्ष्मीः स्वयम् ॥ 44

श्रृणॊमि यदि वैदिकान् मखविधीन् जगद्यॆशिक ,
प्रकृष्टजनसॆवितान् अहह मॆ मनः कम्पतॆ ।
अहॆतुकदयारसैरवति दीनजीवान् मुदा ,
रमापतिरिति त्वया रचितसूक्तिभिर्मॊदतॆ ॥ 45

आचक्रवालमवनौ भुवनार्य सर्वॆ ,
शंसन्ति मङ्गळगुणान् विबुधप्रियांस्तॆ ।
तॆषु त्वदीय करुणां प्रगुणां तु मन्यॆ ,
रक्षां यया कलयसॆ भवभीतजन्तॊः ॥ 46

सुकृतलवविहीनं शुद्धभावैर्विमुक्तं
दुरितशतनिकॆतं दूरयातं दयायाः ।
पुनरपि जनमॆनं वीक्षसॆ रक्षितुं त्वं
भुवनगुरुरसीत्थं कॊऽपि वात्सल्यसिन्धुः ॥ 47

विमतकुमतिपीडा मानसॆ सम्प्ररूढा
दृढममुमिह जीवं कृन्तति क्रूरवृत्तया ।
अमृतरससखॆभिस्तां निवार्याशु दृग्भिः

विरचय विधिशक्तं श्रीजगद्यॆशिकॆन्द्र ॥ 48

दॊषा यॆन कृता मुरारिकरुणासारापगारॊधिकाः ,
शैलॆन्द्राः शतशॊ वसन्ति न गुणस्याणॊरणुर्दृश्यतॆ ।
लॊकाचार्य जनं तमॆनमलसं रक्षॆभ्दवांश्चॆत् ततः ,
पद्माकान्तदयादयॊ वरगुणास्तस्मिंस्तु तॆभ्यॊ नमः ॥ 49

यस्यासीत् कुलदैवतं रघुवरॆणाराधितः श्रीसखः ,
कावॆरीसरिदन्तरीपनगरी वासस्थली पुण्यभूः ।
कृष्णॊ मान्यगुरुर्वरॆण्यमहिमा वॆदान्तविद्यानिधिः ,
भ्राता सौम्यवरः स्वयंच भुवनार्यॊऽसि कस्तॆ समः ॥ 50

कावॆरीयुगलाम्बुपूर ललितॆ पुण्यान्तरीपॆऽस्म्यहं ,
लॊकार्यॊ व्रज तद्विजॆति वरदः प्रॊवाच भक्ताय हि ।
इत्यॆवं गुरुसूक्तिभिर्गुरुवर त्वां मन्यमानस्त्वहं ,
वन्दॆ वारणशैलश्रृङ्गनिलयं मद्यैवतं श्रीसखम् ॥ 51

वॆदान्तॊक्तिविशॊधितॆषु च यतः कर्माद्युपायॆषु मॆ ,
शक्तिर्न प्रगुणा निषिद्धकरणैर्मुह्यन्ति वागादयः ।
श्रीवाणीरसजीवनं शमधनं रामानुजं मद्गुरुं ,
यॊगीन्द्रं भुवनार्य वीक्ष्य विमलैर्मां पामयालॊकनैः ॥ 52

प्रणम्य चरणौ तव प्रणतदॆहिनां कामदौ
इदं किमपि वाञ्छितं भुवनदॆशिक प्रार्थयॆ ।
असारफणितिक्षमाचरणमद्य हित्वा मनः
प्रयातु पदवीं शुभां वचनभूषणालङ्कृताम् ॥ 53

इत्थं जगद्गुरुवरप्रवणॆन सर्व-
तन्त्रस्वतन्त्र कवितार्किकसिंहनाम्ना ।
श्रीवॆङ्कटॆशकविना कलितां स्तुतिं यॆ ,
स्निग्धाः पठन्ति भुवि यान्ति पराम् श्रियं तॆ ॥ 54

कवितार्किकसिंहाय कल्याणगुणशालिनॆ ।
श्रीमतॆ वॆङ्कटॆशाय वॆदान्तगुरवॆ नमः ॥


AzhvAr EmperumAnAr Jeeyar thiruvaDigaLE SaraNam
PiLLai lOkachAryar thiruvaDigaLE SaraNam
Jeeyar thiruvadigaLE SaraNam
shrImatE rAmAnujAya nama:
shrImat varavaramunayE nama:
shrImannigamAnta mahAdeshikai: anugRuhItam -

shrI kumAra lOkAchArya pa~jchAshat

shrImAn vE~gkaTanAthArya: kavitArkika kEsarI
vEdAntAchAryavaryO mE sannidhattAm sadA hRudi

1.
kAvErI pulinAntarAla laharIkallOlamAlAlasatparya~gkIkRutapannagEshvaratanou nidrAnibaddhAdaram kastUrI tilakA~jcitaM kamalajEnArAdhitaM shrIsakhaMvastu svIkRutakoustubhaM dishatuna: swasti prashastaM swata:
2.natalOkapAlanadhiyA marudvRudhA-pulinaM jagAmanalinaM vihAya yA mayi sA tara~ggayatu ra~ggiNa:priyA , karuNAtara~gga vitatIrapA~ggajA
3.yatpANipadmadhRutakA~jcanavEtravallI - spandassurEndrabhayabha~jjana lampaTAtmA vaikunTasUripariShatprabhuratrasharma , sO& yaM vikAsayatu sUtravatIpatirmE
4.muhurnatvA mUrdhnA vinatavividhApatprashamanE shaThArEH pAdAbjE madhurakavividEvasya sharaNeidaM yAcE vAcA& pyalakavakulAlIparigala-nmadhUlImAdhuryaM mama vacanabha~ggayAM sa dishatu
5. vikAsayitvA nigamAntabhAShya-sidhdA~jjanAtkAmapi dIrghadRuShTimprAdarshayadyaH paramaM pumAMsaM ,sa pAtu mAM saMyamisArva bhaumaH
6.kUrEshagOvindapadAravinda-sEvArasAmOditacittabhUmA bhaTTAryavaryO& pi suravaM dadAtu,mamAdya vEdAntimunIshvarENa
7.yajjihvAgra vishAlara~ggarasikA vANI pravINA&nishaM,nRutyantI draviDAryasaMskRutavapurdhatte kavInAM priyam lOkAryaH kalivairidAsagururityanyAbhidhAnassa me , kuryAduttaravIthi kRuShNa mahitAcAryaH kalAsampadam
8.atulaH kalivairidAsavANI - maNivallI valanAva -lambashAravI gururuttaravIthikAnivAsI , mamabhadrANi tanOtu kRuShNanAmA
9.vatsAnvavAya varaNIya payaH payOdheH ,jAtOdayau jagati koustubha candrabimbau manye jagadvitata kAnti kalAvilAsau , lokAryasundaravaraukila kRuShNa hRudyau
10.vANIpuNyasudhApagAM shaThajitaH svairaM vigAhyAdarAt ,AnIyAmRutamatra cakraturubhau pAnIyashAlAtmakam yau vAgbhUShaNa deshikendrahRudayAbhiKya prabandhadvayaM ,tau vande bhuvanAryasundaravarau kRuShNAtmajau deshikau
11.madhuripumahilAyAH sPItavIkShAsarOjAt,madhuraPaNitibhRu~ggI nirgatA kAcidEShA bhuvanagurupAdAbja ddanTvaniryanmarandAn ,anudinamanubhUyA&&nanda sAndrA mAmAstu
12.maNipravAlA~jcitasUktisUnaiH vibhUShitA&shESha sahastrashAravamakalpayat ka~jcana kalpavRukShaM ,kRuShNaH kShitau lOkagurUttmAKyam
13.dEvIShu padmanilayA dayitA babhUva,bhaktEShu sO&pi vakulA~gkamunirvareNyaH AryeShu nirmalaguNastvayamantara~ggaH ,ra~ggAdhipasya nRupate rjagadAryanAmA
14.hRudayamukurabimbaM yattavaha~gkArapa~gka - sthagita vimalarUpaM svOktishuddhAmbupUraiH bhuvanaguruvara stacChOdhayitvA janAnAM , cidacidadhipatIM strIn darshayan bhAti tatra
15.janijaladhiparItAgAra lInAtmapa~gktayai , trividhavishaya tRuShNArAkShasIpIDitAyai bhuvanaguruvaro&dAt shrImatIM sUktibhUShAM ,pavanaja iva devyai pANibhUShAM svabhartaH
16.PaNitikiraNajAlairmAnyan mAnasAbjaM ,charaNamuShita doShArUDhagADhAndhakAraH apara iva vapuShmAnaMshumAlI janAnAM ,padamiva bhuvanAryO bhAsayan bhAti viShNoH
17.antavilOchanamanantatamOnigUDham ,AlOkya jantu nivahasya dayArdracEtAH unmIlayannupahitEna rahastrayArtha dIpEnayO jayati lOkaguruM tamIDE
18.bhuvanagurUttamashchaturara~ggapurApaNikaH,kaliripudAsavarya kalitAmalasUktimaNIn guNapaNasa~ggrahENa nipuNAya dadAti hi tAn ,atha punarEva vruddhimupayAnti vichitramidam
19.dRuDhabhavadavidyAvallarI vAsanA&bhdiH ,
samayavihitapOShA vistrutA karmavRukShe bhuvanaguruvarOktiprouDhaJa~jJAmarubhdiH ,
satarurapahRutA sA kShEtriNO bhagnamUlA
20.yatipravara bhAratIjalanidhiM prapIyAmalaM ,
jagadguruvalAhakaH paTu vavarSha bhUmau jalam
vikAsamagamat paraM vinatasasya pa~gktustadA ,
pravAhabahulA&bhavat nigamamaulinidyAnadI
21. paTuprathamadEshikairvirachitAH prabandhAH parE,rahastrayapadAvalIvivaraNE pravRuttAH param
jagadgurumukhOditAH jagati bhAntyamI bhAskarAH ,
bhavaprabhavasharvarI vibhava mOchanAhaskarAH
22.agamyamahimA janai rnigamamaulikAntArabhU -
vihArarasikO vRuShakShitibhRutO vasan kandarE vibhAti vimatOnmadadviradakumbhasambhEdana ,
kShamOktinaKarO mahAn sa jagadAryakanThIravaH
23.vigataviShayatRuShNaH kRUShNapAdAshrayAtmA ,
dramiDanigamadarshI deshikAnAM pradhAnaH
madhurakavivachObhi rmAnanIyO mamAsau ,
shaTharipuriva lOkAchAryavarYO vibhAti
24.chulukitabhavasindhuM chittajakOdhadaitya ,
pramathanapaTubuddhiM shrIjagadyEshikEndram
draviDaPaNitidakShaM dakShiNAshAniShaNNaM ,
kalashatanayamanyaM manyatE mE manastvAm
25.shrIvatsarUparuchirO&pyarati: priyA tE ,
prItirmadhudyiShi bhavaprabhavA na bhItiH lOkAvalIvimalalochanagOcharA~ggaH
kRuShNAtmajastvamaparaH kimu manmathOsi
26.dRuShTvA tE bhuvanArya sundaravapuH kEchit bhavAmbhOnidhiM ,santIrNAH shravaNAmRutaM tava
guNaM shrutvA sakRut kEchana anyE kEπ
sudhAsahOdaragiraH pItvA&bhavannirmalAH ,
tasmAt saMsRutivartanI kShititalEkShINA babhUva kShaNAt
27.tava charaNasarOjasparshadhanyastu kashchitU ,
PaNipatipura bAhyOdyAna sImAnivAsI bhuvanaguruvara
shrIpadmanAbhasya pAdE ,
vilayamagamadArAnmAnavaidRushyamAnaH
28.sachchIvanI charaNarENukaNAvalI tE ,
saMsAratakShaka mukhakShata mugdhajantOH
lOkAryavarya karuNAmRuta sAraNI tu saMvillatAM
kalayatE hRudayE prarUDhAm
29.shiShyEShu vAgbhUShaNabhUShitEShu,
jagadgurO te karuNA&bhiShEkAt sa kUravaMshOttama
dAsanAmA mAnyO guruNAmabhavanmahimnA
30.rUpaM purANamaNibhiH shrutivajradIptaM padmApatErmunijanastadala~jchakAra tatra tvayA virachitaM tu maNipravAlanAgbhUShaNaM hi nitarAM bhuvanArya bhAti
31.kAmaM bhavantu guravO vividhAgamArtha,vi~jyAna vishva viditAH vihitaprabandhAH tvatsUktimauktikagaNO yadala~jchakAra,ra~ggAdhipashrutiyugaM bhuvanArya kiM taiH
32.shrutinikaragabhIra kAnanAnta,rviharaNa vishrutabuddhinA tvayaiva prapadanasaraNirvishOdhitA&bhUt ,bhuvanagurO bhuvi lOkasAdhanIyA
33.tvayi vilasati ra~ggE shEShatalpEna puMsA,jagati guruvara shrIdRuShTipUrAbhiShiktE kathamiva bhuvanArya tvAM vinA&nyaM
bhajantE ,sati dinakarabimbE kE pradIpaM vahanti
34.avanasavanakarmaNyAtmalOkasya ra~ggI ,bhuvanaguru vara tvAM kalpayitvA samartham tadanu bhujagarAjOttu~gga parya~gkashAyIM ,rachayati suKanidrAM rAghavANAM kulEndraH
35.parapadanilayO&sau padmayA ra~gganAthaH ,pulinataTamavapya tvAM bhuvaMchApayitvA chiramabhilaShitArthaM prApya lOkArya manyE ,kalayati darahAsaM phullavaklAravindaH
36.bahuvidhaduritaughE majjatAM mAnavAnAM dvayamanukarayugmaM samprasAryA~jjasA tAn taTabhuvamupanIya ,prApitAshESha vidyAn ,kalayasibhuvanArya tvaM kRupAchOditAtmA
37.vaklEndOrbhuvanAryavarya bhavatO vANI sudhAdhOraNI,ja~jgE&ShTAdashabhEdapUra vihitatrANAtmasasyA yataH yEshA saMsRutibhUrabhUt phalavatI tasmAnnadImAtRukA, kRuShNAmbhOdavilOkinI kila purA na prApa vRuddhiM parAm
38.krOdhaH kkApi payOnidhau nipatitaH kAmastvana~ggO&bhavatU , darpaH sarpa iva drutaM vanabilE magnO na dRuggO charaH dambhAha~gkRutilObhamatsarabhaTAH kutrApi kONE gatAH,jAtE bhUmitalE vivEkamahitE lOkAryavaryatvayi
39.dayA mudamupAgamat damashamakShamA
bhUShitAH ,viraktirapishObhatE vimalavidyayA&la~gkRutA muhussumatisaMskRutA lasati viShNubhaktirguNAH vivEkajanakaM jagadguru mupAshritA bhAntyamI
40.jagadguruvarAnishaM charaNasambhRutA bhUsurAH mumukShu janashEravarAstviti na chitramatrAvanau vivichya chidachitprabhUn tava kRupA~jjanOdyadRRushA nivRuttipathagAmitI sapadi bhAminI kApyabhUt
41.chaturvadanasundarI tava muKAravindaM shritA ,
ramApatipadapriyA lasati kApi bhaktirhRudi viraktirapi
shObhatE viditanIlakaNThA~ggagA ,
vadhuvimuKam AH kathaM bhuvanadEshikAtvAM jaguH
42. jagadguruvara kShitau kShaNitakalmaShaudhAM kalAM ,
chaturthapuruShArthadAmapi kalau vitatya tvayi kRutAvataraNE
punaH kRutayugakramaH shObhatE ,
na kOpi bhuvi dRushyatE narakavartmagAmI naraH
43.hRudantaramaH prabhAmanubhavanti bhaktiM parE,
prapattimapi kEchana prabalakarmanirmUlinIm
jagadguruvara dvayaM bhavatu siddhidaM sAdhanaM ,
vayaM tava padAmbuja smaraNamEva manyAmahE
44.gururbhavati dEhinAM bhuvanadEshikasyAdarAt ,
apA~ggalavavipruShaH paripatanti yasyA~ggakE
shubhAni kila taM bhajantyatha kalA samujjRumbhatE ,
bhavanti navasampadO bhajati mOkShalakShmIH svayam
45.shrRuNOmi yadi vaidikAn maKavidhIn jagadyEshika , prakRuShTajanasEvitAn ahaha mE manaH kampatE
ahEtukadayArasairavati dInajIvAn mudA ,
ramApatiriti tvayA rachitasUktibhirmOdatE
46.AchakravAlamavanau bhuvanArya sarvE ,
shaMsanti ma~ggaLaguNAn vibudhapriyAMstE
tEShu tvadIya karuNAM praguNAM tu manyE ,
rakShAM yayA kalayasE bhavabhItajantOH
47.sukRutalavavihInaM shuddhabhAvairvimuktaM
duritashatanikEtaM dUrayAtaM dayAyAH punarapi
janamEnaM vIkShasE rakShituM tvaM
bhuvanagururasItthaM kOpi vAtsalyasindhuH
48.vimatakumatipIDA mAnasE samprarUDhA ,
dRuDhamamumiha jIvaM kRuntati krUravRuttayA
amRutarasasaKEbhistAM nivAryAshu dRugbhiH ,
virachaya vidhishaktaM shrIjagadyEshikEndra
49.dOShA yEna kRutA murArikaruNAsArApagArOdhikAH ,
shailEndrAH shatashO vasanti na guNasyANOraNurdRushyatE
lOkAchArya janaM tamEnamalasaM rakShEbhdavAMshchEt tataH ,
padmAkAntadayAdayO varaguNAstasmiMstu tEbhyO namaH
50.yasyAsIt kuladaivataM raghuvarENArAdhitaH shrIsaKaH , kAvErIsaridantarIpanagarI vAsasthalI puNyabhUH kRuShNO mAnyagururvarENyamahimA vEdAntavidyAnidhiH ,
bhrAtA saumyavaraH svayaMcha bhuvanAryO&si kastE samaH
51.kAvErIyugalAmbupUra lalitE puNyAntarIpE&smyahaM ,
lOkAryO vraja tadvijEti varadaH prOvAcha bhaktAya
hi ityEvaM gurusUktibhirguruvara tvAM manyamAnastvahaM ,
vandE vAraNashailashrRu~gganilayaM madyaivataM shrIsakham
52.vEdAntOktivishOdhitEShu cha yataH karmAdyupAyEShu mE ,
shaktirna praguNA niShiddhakaraNairmuhyanti vAgAdayaH shrIvANIrasajIvanaM shamadhanaM rAmAnujaM madguruM ,
yOgIndraM bhuvanArya vIkShya vimalairmAM pAmayAlOkanaiH
53.praNamya charaNau tava praNatadEhinAM kAmadau idaM kimapi vA~jChitaM bhuvanadEshika prArthayE asAraphaNitikShamAcharaNamadya hitvA manaH prayAtu padavIM shubhAM vachanabhUShaNAla~gkRutAm
54.itthaM jagadguruvarapravaNEna sarva-tantrasvatantra kavitArkikasiMhanAmnA shrIvE~gkaTEshakavinA kalitAM stutiM yE , snigdhAH paThanti bhuvi yAnti parAm shriyaM tE
kavitArkikasiMhAya kalyANaguNashAlinE
shrImatE vE~gkaTEshAya vEdAntaguravE namaH
ithi lOkAchArya panchASath